|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.334. अध्यायः 334
Mahabharata - Shanti Parva - Chapter Topics
जनकेन शुकंप्रति मोक्षसाधनीभूताश्रमधर्मकथनपूर्वकं शुकप्रशंसनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-334-0x(6544)(78967)
ततः स राजा जनको मन्त्रिभिः सह भारत।
पुरोहितं पुरस्कृत्य सर्वाण्यन्तः पुराणि च॥ 12-334-1(78968)
आसनं च पुरस्कृत्य रत्नानि विविधानि च।
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात्॥ 12-334-2(78969)
स तदासनमादाय बहुरत्नविभूषितम्।
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्॥ 12-334-3(78970)
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः।
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्॥ 12-334-4(78971)
तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रतिपूज्य च।
पाद्यं निवेद्य प्रथममर्ध्यं गां च न्यवेदयत्॥ 12-334-5(78972)
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि।
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः॥ 12-334-6(78973)
गां चैव समनुज्ञाय राजानमनुमान्य च।
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्॥ 12-334-7(78974)
अनामयं च राजेन्द्र शुकः सानुचरस्य ह।
अनुज्ञातः स तेनाथ निषसाद सहानुगः॥ 12-334-8(78975)
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः।
किमागमनमित्येवं पर्यपृच्छत पार्थिवः॥ 12-334-9(78976)
शुक उवाच। 12-334-10x(6545)
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः।
विदेहराजो याज्यो मे जनको नाम विश्रुतः॥ 12-334-10(78977)
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः।
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयं॥ 12-334-11(78978)
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः।
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि॥ 12-334-12(78979)
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः।
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा॥ 12-334-13(78980)
जनक उवाच। 12-334-14x(6546)
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु।
कृतोपनयनस्तात भवेद्वेदपरायणः॥ 12-334-14(78981)
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो।
देवतानामृषीणां चाप्यनृणो ह्यनसूयकः॥ 12-334-15(78982)
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च।
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः॥ 12-334-16(78983)
समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत्।
अनसूयुर्यथान्यायमाहिताग्निरनावृतः॥ 12-334-17(78984)
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत्।
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः॥ 12-334-18(78985)
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्।
निर्द्वन्द्वो बीतरागात्मा ब्रह्माश्रमपदे वसेत्॥ 12-334-19(78986)
शुक उवाच। 12-334-20x(6547)
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते।
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु वा॥ 12-334-20(78987)
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति।
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप॥ 12-334-21(78988)
जनक उवाच। 12-334-22x(6548)
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्।
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः॥ 12-334-22(78989)
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्॥ 12-334-23(78990)
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्।
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः॥ 12-334-24(78991)
अनेन क्रमयोगेन बहुजातिषु कर्मणाम्।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते॥ 12-334-25(78992)
भावितैः करणैश्चायं बहुसंसारयोनिषु।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥ 12-334-26(78993)
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः॥ 12-334-27(78994)
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना॥ 12-334-28(78995)
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
संपश्यन्नोपलिप्येत जले वारिचरो यथा॥ 12-334-29(78996)
पक्षिवत्प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते।
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः॥ 12-334-30(78997)
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना।
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः॥ 12-334-31(78998)
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम्।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा॥ 12-334-32(78999)
न बिभेति परो यस्मान्न बिभेति पराच्च यः।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तु सः॥ 12-334-33(79000)
यदा भावं न कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥ 12-334-34(79001)
संयोज्य मनसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम्।
त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वमश्नुते॥ 12-334-35(79002)
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्।
समो भवति निर्द्वन्द्वो ब्रह्म संपद्यते तदा॥ 12-334-36(79003)
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति।
काञ्चनं चायसं चैव सुखं दुःखं तथैव च॥ 12-334-37(79004)
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा॥ 12-334-38(79005)
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा॥ 12-334-39(79006)
तमः परिगतं वेश्म यथा दीपेन दृश्यते।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्॥ 12-334-40(79007)
एतत्सर्वं च पश्यामि त्वयि बुद्धिमतां वर।
यच्चान्यदपि नोक्तं मे तत्त्वतो वेद तद्भवान्॥ 12-334-41(79008)
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः।
गुरोस्तव प्रसादेन तव चैवोपशिक्षया॥ 12-334-42(79009)
तस्यैव च प्रसादेन प्रादुर्भूतं महात्मनः।
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम॥ 12-334-43(79010)
अधिकं तव विज्ञानमधिका च गतिस्तव।
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे॥ 12-334-44(79011)
बाल्याद्वा संशयाद्वापि भयाद्वाऽप्यविमोक्षणात्।
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिं॥ 12-334-45(79012)
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः।
विमुच्य हृदयग्रन्थीनासादयति तां गतिम्॥ 12-334-46(79013)
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः।
व्यवसायादृते ब्रह्मन्नासादयति तत्परम्॥ 12-334-47(79014)
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपः।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते॥ 12-334-48(79015)
न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम्।
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्॥ 12-334-49(79016)
अहं त्वामनुपश्यामि ये चाप्यन्ते मनीषिणः।
आस्थितं परमं मार्गमक्षयं तमनामयम्॥ 12-334-50(79017)
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः।
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि॥ ॥ 12-334-51(79018)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः॥ 334॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-334-7 राज्ये कुशलमव्ययमिति ध. पाठः॥ 12-334-12 मोक्षः कर्तव्य इति ट. ड.थ. पाठः॥ 12-334-23 आचार्यः प्रापिता तस्येति ध. पाठः॥ 12-334-32 नान्यत्र रतं तत्रैव चैव तत् इति ध. पाठः॥ 12-334-41 चच्चान्यदपि वेत्तव्यमिति झ. पाठः॥ 12-334-44 अधिकं भवति ज्ञानमिति ड. थ. पाठः॥ 12-334-46 तद्विधश्छिन्नसंशय इति ध. पाठः॥ 12-334-48 नास्ति लोलुप इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|